Hinduism News:

Mooka Pancha Sathi 2 in Padaravinda Satakam in Sanskrit

रचन: श्री मूक शङ्करेन्द्र सरस्वति

गलग्राही पौरन्दरपुरवनीपल्लवरुचां
धृतपाथम्यानामरुणमहसामादिमगुरुः ।
समिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि
प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥2॥

मरालीनां यानाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
जनो‌உयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥3॥

वहन्ती सैन्दूरीं सरणिमवनम्रामरपुऱी-
पुरन्ध्रीसीमन्ते कविकमलबालार्कसुषमा ।
त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी
विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥4॥

प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः
स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सान्ध्यां कान्तिं वहति सुषमाभिश्चरणयोः
तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥5॥

ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
ययोः सौधायन्ते स्वयमुदयभाजो भणितयः ।
ययोः दासायन्ते सरसिजभवाद्याश्चरणयोः
तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥6॥

नयन्ती सङ्कोचं सरसिजरुचं दिक्परिसरे
सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।
कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरन्ती कामाक्ष्याः चरणरुचिसन्ध्या विजयते ॥7॥

विरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं
पुरस्तादानम्रे पुरविजयिनि स्मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥8॥

सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।
भृतं कान्त्यम्भोभिः विसृमरमरन्दैः सरसिजैः
विधत्ते कामाक्ष्याः चरणयुगलं बन्धुपदवीम् ॥9॥

रजःसंसर्गे‌உपि स्थितमरजसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥10॥

जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरैः
निषिदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं
तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥11॥

तुलाकोटिद्वन्द्वक्कणितभणिताभीतिवचसोः
विनम्रं कामाक्षी विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
पुनीयान्मूर्धानं पुरहरपुरन्ध्री चरणयोः ॥12॥

भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ ।
ययोर्लाक्षाबिन्दुस्फुरणधरणाद्ध्वर्जटिजटा-
कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥13॥

पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणाः परशिवे ।
कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा
वलन्तो व्यातन्वन्त्यहमहमिकां माधवमुखाः ॥14॥

बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालाम्बुदकुले ।
स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद-
स्तटिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥15॥

सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथङ्कारं मातः कथय पदपद्मस्तव सतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥16॥

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा ।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा
तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥17॥

नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोत्पलमहः-
पयोधौ रिङ्खद्भिर्नखकिरणफेनैर्धवलिते ।
स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥18॥

शिवे पाशायेतामलघुनि तमःकूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने ।
नभोमासायेतां सरसकवितारीतिसरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥19॥

निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे
त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥20॥

नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी-
निसर्गप्रेङ्खोलत्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥21॥

कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
महान्तं सन्तापं मदनपरिपन्थिप्रियतमे ।
क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥22॥

ययोः सान्ध्यं रोचिः सततमरुणिम्ने स्पृहयते
ययोश्चान्द्री कान्तिः परिपतति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥23॥

जगन्नेदं नेदं परमिति परित्यज्य यतिभिः
कुशाग्रीयस्वान्तैः कुशलधिषणैः शास्त्रसरणौ ।
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदम्पर्यं तव चरणपद्मं विजयते ॥24॥

कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वैशद्यं कलितरसमानन्दसुधया ।
अलङ्कारं भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरन्तस्स्थं तव चरणरत्नं मृगयते ॥25॥

मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः
दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः ।
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥26॥

कवीनां चेतोवन्नखररुचिसम्पर्कि विबुध-
स्रवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः ।
दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं
मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥27॥

सदा किं सम्पर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः
तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
विभिन्ते संमोहं शिशिरयति भक्तानपि दृशाम्
अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥28॥

पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥29॥

चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं
निरस्यन्ती जाड्यं नियतजडमध्यैकशरणम् ।
अदोषव्यासङ्गा सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥30॥

सुराणामानन्दप्रबलनतया मण्डनतया
नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया ।
पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः
विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥31॥

सितिम्ना कान्तीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने ।
लभन्ते मन्दारग्रथितनवबन्धूककुसुम-
स्रजां सामीचीन्यं सुरपुरपुरन्ध्रीकचभराः ॥32॥

स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां
वहन्नब्जं चक्रं दरमपि च लेखात्मकतया ।
श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां
त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥33॥

नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः
पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शङ्के सकलफलदाता सुरतरुः
त्वदीयः पादो‌உयं तुहिनगिरिराजन्यतनये ॥34॥

वषट्कुर्वन्माञ्जीरकलकलैः कर्मलहरी-
हवींषि प्रौद्दण्डं ज्वलति परमज्ञानदहने ।
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥35॥

महामन्त्रं किञ्चिन्मणिकटकनादैर्मृदु जपन्
क्षिपन्दिक्षु स्वच्छं नखरुचिमयं भास्मनरजः ।
नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता-
पिशाचीं पादो‌உयं प्रकटयति ते मान्त्रिकदशाम् ॥36॥

उदीते बोधेन्दौ तमसि नितरां जग्मुषि दशां
दरिद्रां कामाक्षि प्रकटमनुरागं विदधती ।
सितेनाच्छाद्याङ्गं नखरुचिपटेनाङ्घ्रियुगली-
पुरन्ध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥37॥

दिनारम्भः सम्पन्नलिनविपिनानामभिनवो
विकासो वासन्तः सुकविपिकलोकस्य नियतः ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥38॥

धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं
निधानं दीप्तीनां निखिलजगतां बोधजनकम् ।
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
पदं ते पातङ्गीं परिकलयते पर्वतसुते ॥39॥

शनैस्तीर्त्वा मोहाम्बुधिमथ समारोढुमनसः
क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् ।
लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥40॥

प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि-
त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण-
प्रसादौन्मुख्याय स्पृहयति जनो‌உयं जननि ते ॥41॥

मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता
सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्माञ्जीरककलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥42॥

जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा
समैर्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥43॥

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग-
त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ ।
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥44॥

अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् ।
तुलाकोटिद्वन्दं दधदपि च गच्छन्नतुलतां
गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥45॥

प्रवालं सव्रीलं विपिनविवरे वेपयति या
स्फुरल्लीलं बालातपमधिकबालं वदति या ।
रुचिं सान्ध्यां वन्ध्यां विरचयति या वर्धयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥46॥

किरञ्ज्योत्स्नारीतिं नखमुखरुचा हंसमनसां
वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः ।
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥47॥

नखाङ्कूरस्मेरद्युतिविमलगङ्गाम्भसि सुखं
कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदञ्चन्मञ्जीरस्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥48॥

भवाम्भोधौ नौकां जडिमविपिने पावकशिखा-
ममर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥49॥

परत्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां
मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते ।
यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां
विधातुं चेष्ठन्ते बलरिपुवधूटीकचभराः ॥50॥

अविश्रान्तं तिष्ठन्नकृतकवचःकन्दरपुटी-
कुटीरान्तः प्रौढं नखरुचिसटालीं प्रकटयन् ।
प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा
तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥51॥

पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी-
पुरन्ध्रीणां लास्यं तव ललितमालोक्य शनकैः ।
नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥52॥

सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः ।
स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥53॥

नतानां सम्पत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः ।
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥54॥

वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
पदाम्भोजन्यासं पशुपरिबृढप्राणदयिते ।
पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं
दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥55॥

प्रणामोद्यद्बृन्दारमुकुटमन्दारकलिका-
विलोलल्लोलम्बप्रकरमयधूमप्रचुरिमा ।
प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी-
कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥56॥

वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः
जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसङ्क्षोभगरिमा
वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥57॥

समन्तात्कामाक्षि क्षततिमिरसन्तानसुभगान्
अनन्ताभिर्भाभिर्दिनमनु दिगन्तान्विरचयन् ।
अहन्ताया हन्ता मम जडिमदन्तावलहरिः
विभिन्तां सन्तापं तव चरणचिन्तामणिरसौ ॥58॥

दधानो भास्वत्ताममृतनिलयो लोहितवपुः
विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां
तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥59॥

नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ-
प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो-
र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥60॥

जनो‌உयं सन्तप्तो जननि भवचण्डांशुकिरणैः
अलब्धवैकं शीतं कणमपि परज्ञानपयसः ।
तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां
पदाम्भोजच्छायां परमशिवजाये मृगयते ॥61॥

जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं
वितानं बिभ्राणे सुरमुकुटसङ्घट्टमसृणे ।
निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा
बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥62॥

प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण-
श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये ।
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ॥63॥

महाभाष्यव्याख्यापटुशयनमारोपयति वा
स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वाधिवसतिं
प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥64॥

विवेकाम्भस्स्रोतस्स्नपनपरिपाटीशिशिरिते
समीभूते शास्त्रस्मरणहलसङ्कर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥65॥

दधानो मन्दारस्तबकपरिपाटीं नखरुचा
वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।
अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो
विकासी वासन्तः समय इव ते शर्वदयिते ॥66॥

नखांशुप्राचुर्यप्रसृमरमरालालिधवलः
स्फुरन्मञ्जीरोद्यन्मरकतमहश्शैवलयुतः ।
भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
नदः शोणाभिख्यो नगपतितनूजे विजयते ॥67॥

धुनानं पङ्कौघं परमसुलभं कण्टककुलैः
विकासव्यासङ्गं विदधदपराधीनमनिशम् ।
नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम्
असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥68॥

करीन्द्राय द्रुह्यत्यलसगतिलीलासु विमलैः
पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदाम्भोजद्वन्द्वं तव तदपि कामाक्षि हृदयं
मुनीनां शान्तानां कथमनिशमस्मै स्पृहयते ॥69॥

निरस्ता शोणिम्ना चरणकिरणानां तव शिवे
समिन्धाना सन्ध्यारुचिरचलराजन्यतनये ।
असामर्थ्यादेनं परिभवितुमेतत्समरुचां
सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥70॥

उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
मरालानां शङ्के मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं
प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥71॥

दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः
द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः
विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥72॥

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥73॥

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः
नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः ।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः
निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥74॥

स्वभावादन्योन्यं किसलयमपीदं तव पदं
म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥75॥

कथं वाचालो‌உपि प्रकटमणिमञ्जीरनिनदैः
सदैवानन्दार्द्रान्विरचयति वाचंयमजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥76॥

चलत्तृष्णावीचीपरिचलनपर्याकुलतया
मुहुर्भ्रान्तस्तान्तः परमशिववामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं
कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥77॥

विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।
त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा
नभोमासाटोपं नगपतिसुते किं न कुरुते ॥78॥

विनम्राणां चेतोभवनवलभीसीम्नि चरण-
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥79॥

विराजन्ती शुक्तिर्नखकिरणमुक्तामणिततेः
विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।
त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने
मुनीनां ज्ञानाग्नेररणिरयमङ्घिर्विजयते ॥80॥

समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः ।
भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो-
बलद्रोही मातश्चरणपुरुहूतो विजयते ॥81॥

वसन्तं भक्तानामपि मनसि नित्यं परिलसद्-
घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् ।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥82॥

कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः-
प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः ।
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः
नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥83॥

भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां
परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः ।
नतानामामृष्टे हृदयमुकुरे निर्मलरुचि
प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥84॥

तव त्रस्तं पादात्किसलयमरण्यान्तरमगात्
परं रेखारूपं कमलममुमेवाश्रितमभूत् ।
जितानां कामाक्षि द्वितयमपि युक्तं परिभवे
विदेशे वासो वा शरणगमनं वा निजरिपोः ॥85॥

गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा-
कटाक्षर्कज्योतिश्शमितममताबन्धतमसः ।
यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं
त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥86॥

जडानामप्यम्ब स्मरणसमये तवच्चरणयोः
भ्रमन्मन्थक्ष्माभृद्धुमुघुमितसिन्धुप्रतिभटाः ।
प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकरा
भवन्ति स्वच्छन्दं प्रकृतिपरिपक्का भणितयः ॥87॥

वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ
तमेवाधः कर्तुं किमिव यतते केलिगमने ।
भवस्यैवानन्दं विदधदपि कामाक्षि चरणो
भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥88॥

यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे
तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।
किरीटैः सङ्घट्टं कथमिव सुरौघस्य सहते
मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥89॥

मनोरङ्गे मत्के विबुधजनसंमोदजननी
सरागव्यासङ्गं सरसमृदुसञ्चारसुभगा ।
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
रणन्मञ्जीरा ते चरणयुगलीनर्तकवधूः ॥90॥

परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥91॥

प्रसूनैः सम्पर्कादमरतरुणीकुन्तलभवैः
अभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसङ्गात्कङ्केलिप्रसवजनकत्वेन च शिवे
त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥92॥

महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि तरसा
किमेवं पादो‌உसौ किसलयरुचिं चोरयति ते ॥93॥

सदा स्वादुङ्कारं विषयलहरीशालिकणिकां
समास्वाद्य श्रान्तं हृदयशुकपोतं जननि मे ।
कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात्
गृहीत्वा रुन्धीथारस्तव पदयुगीपञ्जरपुटे ॥94॥

धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
ज्वरप्रौढिं गूढस्थिति निगमनैकुञ्जकुहरे ।
अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिनः
चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥95॥

रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा ।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥96॥

सुरागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा ।
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥97॥

शिवे संविद्रूपे शशिशकलचूडप्रियतमे
शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते ।
यतन्ते सन्तस्ते चरणनलिनालानयुगले
सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥98॥

यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते ।
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥99॥

मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः ।
यदीये सम्पर्के धृतरसमरन्दा कवयतां
परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥100॥

पुरा मारारातिः पुरमजयदम्ब स्तवशतैः
प्रसन्नायां सत्यां त्वयि तुहिनशैलेन्द्रतनये ।
अतस्ते कामाक्षि स्फुरतु तरसा कालसमये
समायाते मातर्मम मनसि पादाब्जयुगलम् ॥101॥

पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
गिरामन्ते भ्रान्तं कृतकरहितानां परिबृढे ।
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥102॥

इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् ।
स विश्वेषां वन्द्यः सकलकविलोकैकतिलकः
चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥103॥

॥ इति पादारविन्दशतकं सम्पूर्णम् ॥

What Next?

Related Articles

10 Responses to "Mooka Pancha Sathi 2 in Padaravinda Satakam in Sanskrit"

  1. Goutham says:

    Can you provide Mooka Pancha Sathi 2 meaning in Padaravinda Satakam

  2. Venu says:

    I want to know the meaning of Mooka Pancha Sathi 2

  3. Keyuri says:

    From which Purana/Veda/Upanishad Mooka Pancha Sathi 2 Taken

  4. Harshita says:

    Can you provide where i can listen Mooka Pancha Sathi 2 online

  5. Harish says:

    Thank you for giving Mooka Pancha Sathi 2 in Padaravinda Satakam

  6. Aslesha says:

    What is the best time and day to recite Mooka Pancha Sathi 2

  7. Ravi Venkata Krishna says:

    Do you have any other Mantra in Padaravinda Satakam

  8. Bharani says:

    Which day is good for “Mooka Pancha Sathi 2” chanting

  9. Ashwin Patel says:

    I was searching for “Mooka Pancha Sathi 2” and found in your site and happy to see that you have good collections of hindu mantras. I appriciate your efforts to promote hindism.

  10. Khushboo says:

    When i have to recite Mooka Pancha Sathi 2

Leave a Reply

Submit Comment

Time limit is exhausted. Please reload the CAPTCHA.